#માં #મહા સુદ સાતમ નર્મદા પ્રકટોત્સવ *🙏🌹श्री नर्मदाष्टकम 🌹🙏*
*सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं ,*
*द्विषत्सु पापजातजातकारिवारिसंयुतम् ।*
*कृतान्तदूतकालभूतभीतिहारिवर्मदे ,*
*त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥1॥🌹🙏*
*त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं ,*
*कलौ मलौघभारहारि सर्वतीर्थनायकम् । ,*
*सुमच्छकच्छनक्रचक्रचक्रवाकशर्मदे ,*
*त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥2॥🌹🙏*
*महागभीरनीरपूरपापधूतभूतलं ,*
*ध्वनत्समस्तपातकारिदारितापदाचलम् । ,*
*जगल्लये महाभये मृकण्डसूनुहर्म्यदे ,*
*त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥3॥🌹🙏*
*गतं तदैव मे भवं त्वदम्बुवीक्षितं यदा ,*
*मृकण्डसूनुशौनकासुरारिसेवि सर्वदा । ,*
*पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे ,*
*त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥4॥🌹🙏*
*अलक्षलक्षकिन्नरामरासुरादिपूजितं ,*
*सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् । ,*
*वसिष्ठसिष्टपिप्पलादिकर्दमादिशर्मदे ,*
*त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥5॥🌹🙏*
*सनत्कुमारनाचिकेतकश्यपादिषट्पदैः ,*
*धृतं स्वकीयमानसेषु नारदादिषट्पदैः । ,*
*रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे ,*
*त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥6॥🌹🙏*
*अलक्षलक्षलक्षपापलक्षसारसायुधं ,*
*ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् । ,*
*विरञ्चिविष्णुशङ्करस्वकीयधामवर्मदे ,*
*त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥7॥🌹🙏*
*अहोऽमृतं स्वनं श्रुतं महेशकेशजातटे ,*
*किरातसूतवाडवेषु पण्डिते शठे नटे । ,*
*दुरन्तपापतापहारिसर्वजन्तुशर्मदे ,*
*त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥8॥🌹🙏*
*इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा ,*
*पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा । ,*
*सुलभ्य देहदुर्लभं महेशधामगौरवं ,*
*पुनर्भवा नरा न वै विलोकयन्ति रैरवम् ॥9॥🌹🙏*"