sn vyas
484 views
#श्री हरि मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् । गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥ पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् । गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥ विश्वरूपं वासुदेवं रामं नारायणं हरिम् । दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् ॥ अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् । गवां कोटिप्रदानस्य अश्वमेधशतस्य च ॥ कन्यादानसहस्त्राणां फलं प्राप्नोति मानवः । अमायां वा पौर्णमास्यामेकादश्यां तथैव च ॥ सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च । मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥ अर्थ = हे पार्थ ! मत्स्य , कूर्म , वराह , वामन , जनार्दन , गोविन्द , पुण्डरीकाक्ष , माधव , मधुसूदन , पद्मनाभ , सहस्त्राक्ष , वनमाली , हलायुध , गोवर्धन , हृषीकेश , वैकुण्ठ , पुरुषोत्तम , विश्वरूप , वासुदेव , राम , नारायण , हरि , दामोदर , श्रीधर , वेदाङ्ग , गरुडध्वज , अनन्त और कृष्णगोपाल इन नामोंका जप करनेवाले मनुष्यके भीतर पाप नहीं रहता । वह एक करोड गो - दान , एक सौ अश्वमेधयज्ञ और एक हजार कन्यादानका फल प्राप्त करता है । अमावस्या , पूर्णिमा तथा एकादशी तिथिको और प्रतिदिन सायं प्रातः एवं मध्याह्नके समय इन नामोंका स्मरणपूर्वक जप करनेवाला पुरुष सम्पूर्ण पापोंसे मुक्त हो जाता है ॥ नारायण 🪷🌷🪷