|| परशुरामस्तोत्रम् ||
कराभ्यां परशुं चापं दधानं रेणुकात्मजम्। जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम् ।।१।।
नमामि भार्गवं रामं रेणुकाचित्तनंदनम् । मोचिताम्बार्तिमुत्पातनाशनं क्षत्रनाशनम् ।।२।।
भयार्तस्वजनत्राणतत्परं धर्मतत्परम्। गतगर्वप्रियं शूरं जमदग्निसुतं मतम् ।।३।।
वशीकृतमहादेवं दृप्तभूपकुलान्तकम् । तेजस्विनं कार्तवीर्यनाशनं भवनाशनम् ।।४।।
परशुं दक्षिणे हस्ते वामे च दधतं धनुः।
रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम् ।।५।।
शुद्धं बुद्धं महाप्रज्ञामंडितं रणपण्डितम् ।
रामं श्रीदत्तकरुणाभाजनं विप्ररंजनम् ।।६।।
मार्गणाशोषिताब्ध्यंशं पावनं चिरजीवनम् ।
य एतानि जपेद्रामनामानि स कृती भवेत् ।।७।।
इति श्री.प.प. श्रीवासुदेवानंदसरस्वतीविरचितं श्रीपरशुरामस्तोत्रं संपूर्णम् ।।
#🙏પરશુરામ જયંતિ🪔 #🎬 ભક્તિ વીડિયો #🙏ભક્તિ ભજન🎶 #🙏ભક્તિ સ્ટેટ્સ #🙏ભક્તિ સ્ટેટ્સ #વાસુદેવાનંદ સરસ્વતી ટેંબે સ્વામી મહારાજ