ShareChat
click to see wallet page
वक्र तुंड महाकाय, सूर्य कोटि समप्रभ:।निर्विघ्नं कुरु मे देव,शुभ कार्येषु सर्वदा॥ श्रीविष्णुकृतं गणेशस्तोत्रम् नारायण उवाच । अथ विष्णुः सभामध्ये तं सम्पूज्य गणेश्वरम् । तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ॥ ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् । नैव वर्णयितुं शक्तोऽस्म्यनुरूपमनीहकम् ॥ १॥ प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् । सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम् ॥ २॥ अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् । वायुतुल्यं च निर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३॥ संसारार्णवपारे च मायापोते सुदुर्लभे । कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ॥ ४॥ वरं वरेण्यं वरदं वरदानामपीश्वरम् । सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम् ॥ ५॥ ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम्। धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥ ६॥ बीजं संसारवृक्षाणामङकुरं च तदाश्रयम् । स्त्रीपुंनपुंसकानां च रूपमेतदतीन्द्रियम् ॥ ७॥ सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् । स्वेच्छया सगुणं ब्रह्म निर्गुणं स्वेच्छया पुनः॥ ८॥ स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् । त्वां स्तोतुमक्षमोऽनन्तः सहस्रवदनैरपि ॥ ९॥ न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः । सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ । न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः ॥ १०॥ इत्येवं स्तवनं कृत्वा मुनीशसुरसंसदि । सुरेशश्च सुरैः सार्द्धं विरराम रमापतिः ॥ ११॥ इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् । सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः॥१२॥ तद्विघ्ननाशं कुरुते विघ्नेशः सततं मुने । वर्धते सर्वकल्याणं कल्याणजनकः सदा ॥ १३॥ यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम् । तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ १४॥ तेन दृष्टं च दुःस्वप्नं सुस्वप्नमुपजायते । कदाऽपि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ १५॥ भवेद्विनाशः शत्रूणां बन्धूनां चापिवर्धनम् । शश्वदिघ्नविनाशश्च शश्वत्सम्यग्विवर्धनम् ॥ १६॥ स्थिरा भवेद्गृहे लक्ष्मीः पुत्रपौत्रविवर्धनम् । सर्वैश्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ १७॥ फलं चापि च तीर्थानां यज्ञानां यद्भवेद्ध्रुवम् । महतां सर्वदानानां श्रीगणेशप्रसादतः ॥ १८॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे श्रीविष्णुकृतं गणेशस्तोत्रं सम्पूर्णम् ॥। #🌅శుభోదయం #🌷బుధవారం స్పెషల్ విషెస్ #🙏🏻బుధవారం భక్తి స్పెషల్ #🕉️ గణపతి బప్పా మోరియా #🙏శ్రీ వరసిద్ధి వినాయక స్వామి🕉️
🌅శుభోదయం - 60 ںد 60 ںد - ShareChat

More like this