#राम कृष्ण हरी
🪷श्रीमहालक्ष्मी स्तोत्रम !!
ध्यानम् -
सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् ।
शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥० १॥
स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।
प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ ०२॥
रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ।
ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ।
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ॥ ०३॥
विष्णु प्रिये नमस्तुभयं नमस्तुभ्यं जगद्धात्री
आर्त हन्त्री नमस्तुभ्यं समृद्धं कुरू में सदा ।।०४।।
🍁इंद्र उवाच:-
नमो नमस्ते महामाये श्री पीठे सुर पूजिते
शंख चक्र गदा वास्ते महालक्ष्मी नमोस्तुते ,।।०५।।
नमस्ते गरुडारूढे कोलासुरभयंकरि ।
सर्वपापहरे देवि महालक्ष्मी नमोऽस्तु ते ।।०६।।
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।
सर्वदुःखहरे देवी महालक्ष्मी नमोऽस्तु ते ।।०७।।
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवी महालक्ष्मी नमोऽस्तु ते ।।०८।।
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मी नमोऽस्तु ते ।।०९।।
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे।
महापापहरे देवि महालक्ष्मी नमोऽस्तु ते ।।१०।।
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेश्वरी जगन्मातमहालक्ष्मी नमोऽस्तु ते ।।११।।
श्वेताम्बरधरे देवि नानालंकारभूषिते ।
जगत्स्थिते जगन्मातमहालक्ष्मी नमोऽस्तु ते ।।१२।।
महादेवी महालक्ष्मी नमस्ते त्वं विष्णु प्रिये ।
शक्तिदायी महालक्ष्मी नमस्ते दुःख भंजनि ।।१३।।
श्रैया प्राप्ति निमित्ताय महालक्ष्मी नमाम्यहम
पतितो द्धारीणि देवी नमाम्यहं पुनः पुनः ।।१४।।
वेदांस्त्वां संस्तुवन्ति ही शास्त्राणि च मुहपुः ।
देवास्त्वां प्रणमन्तिही लक्ष्मीदेवी नमोऽस्तुते ।।१५।।
नमस्ते महालक्ष्मी नमस्ते. भवभंजनी ।
भुक्तिमुक्ति न लभ्यते महादेवी त्ययि कृपा बिना ।।१६।।
सुख सौभग्यं न प्राप्नोति पत्र लक्ष्मी न विधते।
न तत्फलं समाप्नोति महालक्ष्मी नमाम्यहम।" ।।१७।।
देहि सौभाग्यमारोग्यं देहिमे परमं सुखम् ।
नमस्ते आद्यशक्ति त्वं नमस्ते भीड़भंजनी ,।।१८।।
विधेहि देवी कल्याणं विधेहि परमां श्रियम
विद्यावन्तं यशस्वन्तं लक्ष्मवन्तं जनं कुरु ,।।१९।।
अचिन्त्य रूप-चरिते- सर्वशत्रु विनाशीनी
नमस्तेतु महामाया सर्व सुख प्रदायिनी ।।२०।।
नमाम्यहं महालक्ष्मी नमाम्यहम सुरेश्वरी
नमाम्यहं जगद्धात्री नमाम्यहं परमेश्वरी,।।२१।।
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।।२२।।
पद्मासने पद्मकरे सर्वलोकैकपूजिते ।
सान्निध्यं कुरु मे चित्ते विष्णुवक्षस्थलालये ।।२३।।
महालक्ष्मि नमस्तुभ्यं पीतवस्त्रे नमोऽस्तु ते ।
पद्मालये! नमस्तुभ्यं नमः पद्मविलोचने ।।२४।।
सुवर्णाङ्गि नमस्तुभ्यं पद्महस्ते नमोऽस्तु ते ।
नमस्तुभ्यं गजारूढे विश्वमात्रे नमोऽस्तु ते ॥२५॥
प्रसन्नमुखपद्मायै पद्मकान्त्यै नमो नमः ।
नमो बिल्ववनस्थायै विष्णुपत्न्यै नमो नमः।।२६।।
जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥२७।।
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥२८।।
पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥२९।।
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥३०।।
नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।
वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतं ॥३१।।
रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे ।
दरिद्रात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥३२।।
नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।
ब्रह्मादयो नमस्ते त्वां जगदानन्ददायिनि ॥३३।।
विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।
आर्तहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥३४।।
अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।
चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥३५।।
नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे ।
नमो भक्तप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥३६।।
नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे ।
सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ ३७।।
महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये ।
वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तुते ॥ ३८।।
उद्यद्भानुसहस्राभे नयनत्रयभूषिते ।
रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तुते ॥ ३९।।
।षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये ।
ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते ॥ ४०॥
देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि ।
सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥४१॥
ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ ४२॥
पद्मपत्रेक्षणायै च पद्मास्थायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ ४३॥
सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः ।
सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ ४४॥
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ।
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ ४५॥
कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने ।
सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ ४६॥
शन्याधिष्ठादेव्यै च शस्यायै च नमो नमः ।
नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ ४७॥
अनाद्यनन्तरूपां त्वां जननीं सर्वदेहिनाम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥४८॥
नामजात्यादिरूपेण स्थितां त्वां परमेश्वरीम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ४९॥
व्यक्ताव्यक्तस्वरूपेण कृत्स्नं व्याप्य व्यवस्थिताम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥५०॥
भक्तानन्दप्रदां पूर्णां पूर्णकामकरीं पराम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५२॥
अन्तर्याम्यात्मना विश्वमापूर्य हृदि संस्थिताम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५२॥
सर्वर्दैत्यविनाशार्थं लक्ष्मीरूपां व्यवस्थिताम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥५३॥
भुक्तिं मुक्तिं च या दातुं संस्थितां करवीरके ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५४॥
सर्वाभयप्रदां देवीं सर्वसंशयनाशिनीम् ।
श्रीविष्णुरूपिणीं वन्दे महालक्ष्मीं परमेश्वरीम् ॥ ५५॥
