ShareChat
click to see wallet page
#⚫ शनिदेव #😇भक्तांचा शनिदेव #🌸🙇‍♂️❤️✨!!जय शनि देव!!🙏🙏🙏 #✨शनिवार स्पेशल स्टेटस😍 #🔯शनि साडेसाती 🌹🙏|| श्री शनिवज्रपञ्जर कवचं ||🙏🌹 नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितास्त्रकरो धनुष्मान् | चतुर्भुजः सूर्यसुतः प्रसन्नः सदा ममस्याद्वरदः प्रशान्तः || ब्रह्मा उवाच:| शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् | कवचं शनिराजस्य सौरैरिदमनुत्तमं || कवचं देवतावासं वज्र पञ्जर संङ्गकम् | शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् || अथ श्री शनि वज्र पञ्जर कवचम् | ॐ श्री शनैश्चरः पातु भालं मे सूर्यनन्दनः | नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः || 1 || नासां वैवस्वतः पातु मुखं मे भास्करः सदा | स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः || 2 || स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः | वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा || 3 || नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा | ऊरू ममान्तकः पातु यमो जानुयुगं तथा || 4 || पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः | अङ्गोपाङ्गानि सर्वाणि रक्षेन् मे सूर्यनन्दनः || 5 || फलश्रुतिः इत्येतत्कवचम् दिव्यं पठेत्सूर्यसुतस्य यः | न तस्य जायते पीडा प्रीतो भवति सूर्यजः || व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा | कलत्रस्थो गतोवापि सुप्रीतस्तु सदा शनिः || अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे | कवचं पठते नित्यं न पीडा जायते क्वचित् || इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा | द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा | जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः || || इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपञ्जर कवचं सम्पूर्णम् ||
⚫ शनिदेव - ShareChat

More like this