ShareChat
click to see wallet page
सूर्यनामवर्णनस्तोत्रम् नामभिः संस्तुतो देवो यैरर्कः परितुष्यति । तानि ते कीर्तयाम्येष यथावदनुपूर्वशः ॥१॥ नमः सूर्याय नित्याय रवये कार्यभानवे । भास्कराय मतङ्गाय मार्तण्डाय विवस्वते ॥२॥ आदित्यायादिदेवाय नमस्ते रश्मिमालिने । दिवाकराय दीप्ताय अग्नये मिहिराय च ॥३॥ प्रभाकराय मित्राय नमस्तेऽदितिसम्भव । नमो गोपतये नित्यं दिशां च पतये नमः ॥४॥ नमो धात्रे विधात्रे च अर्यम्णे वरुणाय च । पूष्णे भगाय मित्राय पर्जन्यायांशवे नमः ॥५॥ नमो हितकृते नित्यं धर्माय तपनाय च । हरये हरिताश्वाय विश्वस्य पतये नमः ॥६॥ विष्णवे ब्रह्मणे नित्यं त्र्यम्बकाय तथात्मने । नमस्ते सप्तलोकेश नमस्ते सप्तसप्तये ॥७॥ एकस्मै हि नमस्तुभ्यमेकचक्ररथाय च । ज्योतिषां पतये नित्यं सर्वप्राणभृते नमः ॥८॥ हिताय सर्वभूतानां शिवायार्तिहराय च । नमः पद्मप्रबोधाय नमो वेदादिमूर्तये ॥९॥ काधिजाय नमस्तुभ्यं नमस्तारासुताय च । भीमजाय नमस्तुभ्यं पावकाय च वै नमः ॥१०॥ धिषणाय नमो नित्यं नमः कृष्णाय नित्यदा । नमोऽस्त्वदितिपुत्राय नमो लक्ष्याय नित्यशः ॥११॥ एतान्यादित्यनामानि मया प्रोक्तानि वै पुरा । आराधनाय देवस्य सर्वकामेन सुव्रत ॥१२॥ सायं प्रातः शुचिर्भूत्वा यः पठेत्सुसमाहितः । स प्राप्नोत्यखिलान्कामान्यथाहं प्राप्तवान्पुरा ॥१३॥ प्रसादात्तस्य देवस्य भास्करस्य महात्मनः । श्रीकामः श्रियमाप्नोति धर्मार्थी धर्ममाप्नुयात् ॥१४॥ आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । राज्यार्थी राज्यमाप्नोति कामार्थी काममाप्नुयात् ॥१५॥ एतज्जप्यं रहस्यं च सन्ध्योपासनमेव च । एतेन जपमात्रेण नरः पापात्प्रमुच्यते ॥१६॥ इति श्रीभविष्येपुराणे ब्राह्मे पर्वणि एकसप्ततितमाध्यायान्तर्गतं ब्रह्मप्रोक्तसूर्यनामवर्णनं संपूर्णम्। ❣️ 🪷❤️🪷❤️🪷💙🪷🩵🪷❤️ 🪷🧡🪷🩶🪷🤍🪷💛🪷 🙏🙏 ॐ आदित्याय विद्महे सहस्र किरणाय धीमहि तन्न: सूर्य: प्रचोदयात् 🌱🪷🙏🙏 #☀️శుభ మధ్యాహ్నం #🙏🏻ఆదివారం భక్తి స్పెషల్ #🌼ఆదివారం స్పెషల్ విషెస్ #🌞శ్రీ సూర్యనారాయణ స్వామి🌞 #🌞 శ్రీ సూర్యనారాయణ స్వామి 🌞
☀️శుభ మధ్యాహ్నం - a 77 el व४ a 77 el व४ - ShareChat

More like this