ShareChat
click to see wallet page
॥ सिद्धिलक्ष्मीस्तोत्रम्॥ ॥ दारिद्र्यनाशनं सिद्धिलक्ष्मीस्तोत्रम्॥ श्री गणेशाय नमः । ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः । ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः । ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः । ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः । ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः । ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ॐ सिद्धिलक्ष्मी हृदयाय नमः । ॐ ह्रीं वैष्णवी शिरसे स्वाहा । ॐ क्लीं अमृतानन्दे शिखायै वौषट् । ॐ श्रीं दैत्यमालिनी कवचाय हुम् । ॐ तं तेजःप्रकाशिनी नेत्रद्वयाय वौषट् । ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं फट् ॥ अथ ध्यानम् ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखाम् । त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम् ॥ १॥ पीताम्बरधरां देवीं नानालङ्कारभूषिताम् । तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ २॥ ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम् । विष्णुमानन्दमध्यस्थं ह्रींकारबीजरूपिणी ॥ ३॥ ॐ क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी । ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी ॥ ४॥ तेजः प्रकाशिनी देवी वरदा शुभकारिणी । ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी ॥ ५॥ आकारब्रह्मरूपेण ॐ कारं विष्णुमव्ययम् । सिद्धिलक्ष्मि परालक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तुते ॥ ६॥ सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् । तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ ७॥ ॐ कारपरमानन्दं क्रियते सुखसम्पदा । सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥ ८॥ प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा । तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी ॥ ९॥ पञ्चमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा । सप्तमे च वरारोहा अष्टमे वरदायिनी ॥ १०॥ नवमे खड्गत्रिशूला दशमे देवदेवता । एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका ॥११॥ एतत्स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः । सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा ॥ १२॥ एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् । पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥ १३॥ ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिताः । जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः ॥ १४॥ अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम् । धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च ॥ १५॥ शाकिनीभूतवेतालसर्वव्याधिनिपातके । राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे ॥ १६॥ सभास्थाने श्मशाने च कारागेहारिबन्धने । अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ॥ १७॥ ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम् । स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते॥१८॥ या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते। शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला॥१९॥ ॥ इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे दारिद्र्यनाशनं सिद्धिलक्ष्मीस्तोत्रं सम्पूर्णम् ॥ #ग्रह नक्षत्र👉राशी भविष्य👉भक्ती👉अध्यात्मिक उपाय👉माहिती👉वास्तु सुख।
ग्रह नक्षत्र👉राशी भविष्य👉भक्ती👉अध्यात्मिक उपाय👉माहिती👉वास्तु सुख। - ShareChat

More like this