🌷🌷પરસુરામ..જતમયતિ..🌷🌷

17 Posts • 19K views
Sanjeev Vaswani
674 views 3 days ago
|| परशुरामस्तोत्रम् || कराभ्यां परशुं चापं दधानं रेणुकात्मजम्। जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम् ।।१।। नमामि भार्गवं रामं रेणुकाचित्तनंदनम् । मोचिताम्बार्तिमुत्पातनाशनं क्षत्रनाशनम् ।।२।। भयार्तस्वजनत्राणतत्परं धर्मतत्परम्। गतगर्वप्रियं शूरं जमदग्निसुतं मतम् ।।३।। वशीकृतमहादेवं दृप्तभूपकुलान्तकम् । तेजस्विनं कार्तवीर्यनाशनं भवनाशनम् ।।४।। परशुं दक्षिणे हस्ते वामे च दधतं धनुः। रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम् ।।५।। शुद्धं बुद्धं महाप्रज्ञामंडितं रणपण्डितम् । रामं श्रीदत्तकरुणाभाजनं विप्ररंजनम् ।।६।। मार्गणाशोषिताब्ध्यंशं पावनं चिरजीवनम् । य एतानि जपेद्रामनामानि स कृती भवेत् ।।७।। इति श्री.प.प. श्रीवासुदेवानंदसरस्वतीविरचितं श्रीपरशुरामस्तोत्रं संपूर्णम् ।। #🙏પરશુરામ જયંતિ🪔 #🎬 ભક્તિ વીડિયો #🙏ભક્તિ ભજન🎶 #🙏ભક્તિ સ્ટેટ્સ #🙏ભક્તિ સ્ટેટ્સ #વાસુદેવાનંદ સરસ્વતી ટેંબે સ્વામી મહારાજ
13 likes
6 shares