Rochish Sharma Nandamuru
1K views • 1 days ago
सूर्यनामवर्णनस्तोत्रम्
नामभिः संस्तुतो देवो यैरर्कः परितुष्यति ।
तानि ते कीर्तयाम्येष यथावदनुपूर्वशः ॥१॥
नमः सूर्याय नित्याय रवये कार्यभानवे ।
भास्कराय मतङ्गाय मार्तण्डाय विवस्वते ॥२॥
आदित्यायादिदेवाय नमस्ते रश्मिमालिने ।
दिवाकराय दीप्ताय अग्नये मिहिराय च ॥३॥
प्रभाकराय मित्राय नमस्तेऽदितिसम्भव ।
नमो गोपतये नित्यं दिशां च पतये नमः ॥४॥
नमो धात्रे विधात्रे च अर्यम्णे वरुणाय च ।
पूष्णे भगाय मित्राय पर्जन्यायांशवे नमः ॥५॥
नमो हितकृते नित्यं धर्माय तपनाय च ।
हरये हरिताश्वाय विश्वस्य पतये नमः ॥६॥
विष्णवे ब्रह्मणे नित्यं त्र्यम्बकाय तथात्मने ।
नमस्ते सप्तलोकेश नमस्ते सप्तसप्तये ॥७॥
एकस्मै हि नमस्तुभ्यमेकचक्ररथाय च ।
ज्योतिषां पतये नित्यं सर्वप्राणभृते नमः ॥८॥
हिताय सर्वभूतानां शिवायार्तिहराय च ।
नमः पद्मप्रबोधाय नमो वेदादिमूर्तये ॥९॥
काधिजाय नमस्तुभ्यं नमस्तारासुताय च ।
भीमजाय नमस्तुभ्यं पावकाय च वै नमः ॥१०॥
धिषणाय नमो नित्यं नमः कृष्णाय नित्यदा ।
नमोऽस्त्वदितिपुत्राय नमो लक्ष्याय नित्यशः ॥११॥
एतान्यादित्यनामानि मया प्रोक्तानि वै पुरा ।
आराधनाय देवस्य सर्वकामेन सुव्रत ॥१२॥
सायं प्रातः शुचिर्भूत्वा यः पठेत्सुसमाहितः ।
स प्राप्नोत्यखिलान्कामान्यथाहं प्राप्तवान्पुरा ॥१३॥
प्रसादात्तस्य देवस्य भास्करस्य महात्मनः ।
श्रीकामः श्रियमाप्नोति धर्मार्थी धर्ममाप्नुयात् ॥१४॥
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
राज्यार्थी राज्यमाप्नोति कामार्थी काममाप्नुयात् ॥१५॥
एतज्जप्यं रहस्यं च सन्ध्योपासनमेव च ।
एतेन जपमात्रेण नरः पापात्प्रमुच्यते ॥१६॥
इति श्रीभविष्येपुराणे ब्राह्मे पर्वणि एकसप्ततितमाध्यायान्तर्गतं ब्रह्मप्रोक्तसूर्यनामवर्णनं संपूर्णम्।
❣️
🪷❤️🪷❤️🪷💙🪷🩵🪷❤️
🪷🧡🪷🩶🪷🤍🪷💛🪷
🙏🙏
ॐ आदित्याय विद्महे सहस्र किरणाय धीमहि तन्न: सूर्य: प्रचोदयात् 🌱🪷🙏🙏 #☀️శుభ మధ్యాహ్నం #🙏🏻ఆదివారం భక్తి స్పెషల్ #🌼ఆదివారం స్పెషల్ విషెస్ #🌞శ్రీ సూర్యనారాయణ స్వామి🌞 #🌞 శ్రీ సూర్యనారాయణ స్వామి 🌞
28 likes
4 shares