శ్రీ దుర్గమ్మ దేవి
1 Post • 13K views
Rochish Sharma Nandamuru
658 views 27 days ago
श्रीमङ्गलचण्डिकास्तोत्रं अथवा मङ्गलागौरीस्तोत्रम् ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके । ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः ॥ १॥ पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः । दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ २॥ मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः । ध्यानञ्च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् ॥ ३॥ देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् । सर्वरूपगुणाढ्याञ्च कोमलाङ्गीं मनोहराम् ॥ ४॥ श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् । वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ ५॥ बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् । बिम्बोष्टीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ ६॥ ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् । जगद्धात्रीञ्च दात्रीञ्च सर्वेभ्यः सर्वसम्पदाम् ॥ ७॥ संसारसागरे घोरे पीतरुपां वरां भजे ॥ ८॥ देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने । प्रयतः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ॥ ९॥ ॥ शङ्कर उवाच ॥ रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके । संहर्त्री(संहर्त्रि) विपदां राशेर्हर्षमङ्गलकारिके ॥ १०॥ हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके । शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके ॥ ११॥ मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले । सतां मङ्गलदे देवि सर्वेषां मङ्गलालये ॥ १२॥ पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते । पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ १३॥ मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले । संसार मङ्गलाधारे मोक्षमङ्गलदायिनि ॥ १४॥ सारे च मङ्गलाधारे पारेत्वं सर्वकर्मणाम् । प्रतिमङ्गलवारे च पूज्ये त्वं मङ्गलप्रदे ॥ १५॥ स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् । प्रतिमङ्गलवारे च पूजां कृत्वागतः शिवः ॥ १६॥ देव्याश्च मङ्गलस्तोत्रं यः श‍ृणोति समाहितः । तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् ॥ १७॥ प्रथमे पूजिता देवी शम्भुना सर्वमङ्गला । द्वितीये पूजिता देवी मङ्गलेन ग्रहेण च ॥ १८॥ तृतीये पूजिता भद्रा मङ्गलेन नृपेण च । चतुर्थे मङ्गले वारे सुन्दरीभिश्च पूजिता । पञ्चमे मङ्गलाकाङ्क्षैर्नरैर्मङ्गलचण्डिका ॥ १९॥ पूजिता प्रतिविश्वेषु विश्वेशैः पूजिता सदा । ततः सर्वत्र सम्पूज्य सा बभूव सुरेश्वरी ॥ २०॥ देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने । देव्याश्च मङ्गलस्तोत्रं यः श‍ृणोति समाहितः ॥ २१॥ तन्मङ्गलं भवेच्छश्वन्न भवेत्तदमङ्गलम् । वर्द्धन्ते तत्पुत्रपौत्रा मङ्गलं च दिने दिने ॥ २२॥ ॥ इति श्री ब्रह्मवैवर्ते द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे मङ्गलोपाखाने तत्स्तोत्रादिकथनं नाम चतुश्चत्वारिंशत्तमोऽध्याये मङ्गलचण्डिका स्तोत्रं सम्पूर्णम् ॥ ❣️ 🪷❤️🪷❤️🪷💙🪷🩵🪷❤️ 🪷🧡🪷🩶🪷🤍🪷💛🪷 🙏🙏 #🌅శుభోదయం #🙏🏻శుక్రవారం భక్తి స్పెషల్ #🌹శుక్రవారం స్పెషల్ స్టేటస్ #🔱 శ్రీ దుర్గా దేవి 🕉 #🙏విజయవాడ శ్రీ కనకదుర్గాదేవి🕉️
14 likes
20 shares