☀जय सूर्यदेव
18K Posts • 127M views
💥💫Mrs. Jyoti💫💥
3K views 14 days ago
#☀जय सूर्यदेव *🌹🙏|| श्री आदित्य हृदय स्तोत्रं ||🙏🌹* नमस्सवित्रे जगदेक चक्षुसे जगत्प्रसूति स्थिति नाशहेतवे त्रयीमयाय त्रिगुणात्म धारिणे विरिञ्चि नारायण शङ्करात्मने ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितम् | रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ‖ 1 ‖ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् | उपगम्या ब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः ‖ 2 ‖ राम राम महाबाहो शृणु गुह्यं सनातनम् | येन सर्वानरीन् वत्स समरे विजयिष्यसि ‖ 3 ‖ आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम् | जयावहं जपेन्नित्यं अक्षय्यं परमं शिवम् ‖ 4 ‖ सर्वमङ्गल माङ्गल्यं सर्व पाप प्रणाशनम् | चिन्ताशोक प्रशमनं आयुर्वर्धन मुत्तमम् ‖ 5 ‖ रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम् | पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ‖ 6 ‖ सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः | एष देवासुर गणान् लोकान् पाति गभस्तिभिः ‖ 7 ‖ एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः | महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ‖ 8 ‖ पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः | वायुर्वह्निः प्रजाप्राणः ऋतुकर्ता प्रभाकरः ‖ 9 ‖ आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् | सुवर्णसदृशो भानुः हिरण्यरेता दिवाकरः ‖ 10 ‖ हरिदश्वः सहस्रार्चिः सप्तसप्ति-र्मरीचिमान् | तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्डकोंऽशुमान् ‖ 11 ‖ हिरण्यगर्भः शिशिरः तपनो भास्करो रविः | अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ‖ 12 ‖ व्योमनाथ स्तमोभेदी ऋग्यजुःसाम-पारगः | घनावृष्टि रपां मित्रो विन्ध्यवीथी प्लवङ्गमः ‖ 13 ‖ आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः | कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ‖ 14 ‖ नक्षत्र ग्रह ताराणाम् अधिपो विश्वभावनः | तेजसामपि तेजस्वी द्वादशात्मन्-नमोऽस्तु ते ‖ 15 ‖ नमः पूर्वाय गिरये पश्चिमायाद्रये नमः | ज्योतिर्गणानां पतये दिनाधिपतये नमः ‖ 16 ‖ जयाय जयभद्राय हर्यश्वाय नमो नमः | नमो नमः सहस्रांशो आदित्याय नमो नमः ‖ 17 ‖ नम उग्राय वीराय सारङ्गाय नमो नमः | नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ‖ 18 ‖ ब्रह्मेशानाच्युतेशाय सूर्यायादित्य-वर्चसे | भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ‖ 19 ‖ तमोघ्नाय हिमघ्नाय शत्रुघ्नाया मितात्मने | कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ‖ 20 ‖ तप्त चामीकराभाय वह्नये विश्वकर्मणे | नमस्तमोऽभि निघ्नाय रुचये लोकसाक्षिणे ‖ 21 ‖ नाशयत्येष वै भूतं तदेव सृजति प्रभुः | पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ‖ 22 ‖ एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः | एष एवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ‖ 23 ‖ वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च | यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ‖ 24 ‖ फलश्रुतिः
40 likes
1 comment 109 shares