#🙏🌺जय बजरंगबली🌺🙏
।। श्रीमार्कण्डेयकृतं श्रीमहामृत्युंजय- स्तोत्रम् ।।
विनियोग:-
ॐ अस्य श्रीमहामृत्युंजयस्तोत्रस्यश्रीमार्कण्डेय ऋषिः। अनुष्टुप् छन्दः। श्री मृत्युंजयो देवता। गौरी शक्तिः। मम आयुष्य-आरोग्य-ऐश्वर्य-सिद्ध्यर्थं जपे विनियोगः।।
ध्यान:-
चैतन्यं सुमनं मनं मनमनं मानं मनं वामनं ।
विश्वासार सरं सरं सरसरं सारं सरं वासरं ।।
मायाजाल धवं धवं धवधवं धावं धवं माधवं ।
कैलाशाधिपते भवं भवभवं भावंभवं शांभवं ।।
।। अथ स्तोत्रं।।
ॐ रुद्रं पशुपतिं स्थाणुं नीलकंठमुमापतिम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।१।।
कालकंठं कालमूर्तिं कालज्ञं कालनाशनम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।२।।
नीलकंठं विरूपाक्षं निर्मलं निलयप्रदम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।३।।
वामदॆवं महादॆवं लॊकनाथं जगद्गुरम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।४।।
दॆवदॆवं जगन्नाथं दॆवॆशं वृषभध्वजम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।५।।
गंगादरं महादॆवं सर्पाभरणभूषितम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।६।।
त्र्यक्षं चतुर्भुजं शांतं जटामुकुटधारणम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।७।।
भस्मॊद्धूलितसर्वांगं नागाभरणभूषितम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।८।।
अनंतमव्ययं शांतं अक्षमालाधरं हरम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।९।।
आनंदं परमं नित्यं कैवल्यपददायिनम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।१०।।
अर्धनारीश्वरं दॆवं पार्वतीप्राणनायकम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।११।।
प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।१२।।
व्यॊमकॆशं विरूपाक्षं चंद्रार्द्ध कृतशॆखरम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।१३।।
गंगाधरं शशिधरं शंकरं शूलपाणिनम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।१४।।
अनाथं परमानंदं कैवल्यपददायिनम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।१५।।
स्वर्गापवर्ग दातारं सृष्टिस्थित्यांतकारिणम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।१६।।
कल्पायुर्द्दॆहि मॆ पुण्यं यावदायुररॊगताम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।१७।।
शिवॆशानां महादॆवं वामदॆवं सदाशिवम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।१८।।
उत्पत्ति स्थितिसंहार कर्तारमीश्वरं गुरुम् ।
नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ।।१९।।
फलश्रुति:-
मार्कंडॆय कृतं स्तॊत्रं य: पठॆत् शिवसन्निधौ ।
तस्य मृत्युभयं नास्ति न अग्निचॊरभयं क्वचित् ।।२०।।
शतावृतं प्रकर्तव्यं संकटॆ कष्टनाशनम् ।
शुचिर्भूत्वा पठॆत् स्तॊत्रं सर्वसिद्धिप्रदायकम् ।।२१।।
मृत्युंजय महादॆव त्राहि मां शरणागतम् ।
जन्ममृत्यु जरारॊगै: पीडितं कर्मबंधनै: ।।२२।।
तावकस्त्वद्गतप्राणस्त्व च्चित्तॊऽहं सदा मृड ।
इति विज्ञाप्य दॆवॆशं त्र्यंबकाख्यममं जपॆत् ।।२३।।
नम: शिवाय सांबाय हरयॆ परमात्मनॆ ।
प्रणतक्लॆशनाशाय यॊगिनां पतयॆ नम: ।।२४।।
।। इति श्रीमार्कण्डेयकृतं श्रीमहामृत्युंजय स्तोत्रं सम्पूर्णम् ।।
#🙏शुभ मंगलवार🌸 #🪔मार्गशीर्ष अमावस्या📿 #👏भगवान विष्णु की अद्भुत लीला😇 #🌸जय सिया राम