#श्री दत्तात्रेय जयंती श्री गुरूदेव दत्त
•❀•॥जय श्री गुरूदेव दत्त॥•❀•
. ❁!!*श्रीदत्तात्रेयप्रातः स्मरणस्तोत्रम्*!!❁
प्रातः स्मरामि करुणावरुणालयं तम् । श्रीदत्तमार्तवरदं वरदण्डहस्तम्॥१॥
सन्तं निजार्तिशमनं दमनं विनीत -स्वान्तर्गताखिलमलं विमलं प्रशांतम्॥२॥
प्रातर्भजामि भजदिष्टवरप्रदं तम् । दत्तं प्रसादसदनं वरहीरदं तम्॥३॥
कान्तं मुदात्रितनयं भवमोक्षहेतुम् । सेतुं वृषस्य परमं जगदादिहेतुम् ॥४॥
प्रातर्नमामि प्रयतोऽनसूया -पुत्रं स्वमित्रं यमितोऽनसूयाः॥५॥भूयांस आप्तास्तमिहार्तबंधुं । कारुण्यसिन्धुं प्रणमामि भक्त्या ॥६॥
लोकत्रयगुरोर्यस्तु श्लोकत्रयमिदं पठेत् । श्रीदत्तात्रेयदेवस्य तस्य संसारभीः कुतः॥७॥
इति श्री. प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयप्रातः स्मरणस्तोत्रं संपूर्णम् ॥
✧॥ॐ जय श्री गुरुदेव दत्त॥✧


