ShareChat
click to see wallet page
search
🪷 🌱 🪷 🌱 🪷 🌱 🪷 🌱🪷🌱🪷🌱🪷 🌱"वक्र तुंड महाकाय, सूर्य कोटि समप्रभ:।🌱 🌱निर्विघ्नं कुरु मे देव,शुभ कार्येषु सर्वदा॥"🌱 🪷 🌱 🪷🌱 🪷 🌱 🪷🌱 🪷🌱🪷🌱🪷 श्रीगणेशस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ अहमुवाच । पाशाय शस्त्रराजाय नमस्ते बन्धरूपिणे । मोक्षरूपाय वै तुभ्यं गणेशकरभूषण ॥ १॥ मोहो मायामयः प्रोक्तो बन्धदः सर्वजन्तवे । गणेशज्ञानयुक्तश्चेद् बन्धहीनो नरो भवेत् ॥ २॥ तदेव बन्धरूपाख्यं शस्त्रं तस्य महात्मनः । त्वमेव पाशरूपं वै बन्धमोक्षकरं महत् ॥ ३॥ ये त्वां शरणमापन्नास्तेषां ते बन्धजं भयम् । नास्ति शस्त्र च मां पाहि शरणागतमादरात् ॥ ४॥ नमस्ते तेजसां नाथ दुष्टनाशकराय ते । पाशाय परमास्त्राय शस्त्राणां ब्रह्मणे नमः ॥ ५॥ एवं स्तुत्वा महापाशं प्रणनाम कृताञ्जलिः । अहङ्कारश्च तं त्यक्त्वा पाशो विघ्नेश्वरं ययौ ॥ ६॥ (फलश्रुतिः) इदं स्तोत्रं पठेद्यस्तु तस्य बन्धो विनश्यति । मायापाशमयः साक्षाद्गणेशे स लभेद्गतिम् ॥ ७॥ गतं पाशं विलोक्यैवाहङ्कारो गुरुणा युतः । धूम्रवर्णं जगामाऽसौ तं दृष्ट्वा प्रणनाम ह ॥ ८॥ इति पाशाय बन्धमोक्षकरं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥ - ॥ मुद्गलपुराणं अष्टमः खण्डः । अध्यायः ७ । ८.७ १-८॥ ❣️ 🪷❤️🪷❤️🪷💙🪷🩵🪷❤️ 🪷🧡🪷🩶🪷🤍🪷💛🪷 🙏🙏 ॐ एकदंताय विद्महे वक्रतुंडाय धीमहि तन्नो दंती प्रचोदयात्॥ #🌅శుభోదయం #🙏🏻బుధవారం భక్తి స్పెషల్ #🌷బుధవారం స్పెషల్ విషెస్ #🌷బుధవారం స్పెషల్ విషెస్ #🕉️ గణపతి బప్పా మోరియా #🙏శ్రీ వరసిద్ధి వినాయక స్వామి🕉️
🌅శుభోదయం - 1 Ceeae opi 1 Ceeae opi - ShareChat