श्रीRam
1K views • 14 hours ago
🩸🔱🌺 जय भवानी 🌺🔱🩸🛕🚩🙏
नमस्ते सिद्ध-सेनानि, आर्ये मन्दर-वासिनी,
कुमारी कालि कापालि, कपिले कृष्ण-पिंगले ॥ 1 ॥
भद्र-कालि! नमस्तुभ्यं, महाकालि नमोऽस्तुते।
चण्डि चण्डे नमस्तुभ्यं, तारिणि वर-वर्णिनि ॥ 2 ॥
कात्यायनि महा-भागे, करालि विजये जये,
शिखि पिच्छ-ध्वज-धरे, नानाभरण-भूषिते ॥ 3 ॥
अटूट-शूल-प्रहरणे, खड्ग-खेटक-धारिणे,
गोपेन्द्रस्यानुजे ज्येष्ठे, नन्द-गोप-कुलोद्भवे ॥ 4 ॥
महिषासृक्-प्रिये नित्यं, कौशिकि पीत-वासिनि,
अट्टहासे कोक-मुखे, नमस्तेऽस्तु रण-प्रिये ॥ 5 ॥
उमे शाकम्भरि श्वेते, कृष्णे कैटभ-नाशिनि,
हिरण्याक्षि विरूपाक्षि, सुधू्राप्ति नमोऽस्तु ते ॥ 6 ॥
वेद-श्रुति-महा-पुण्ये, ब्रह्मण्ये जात-वेदसि,
जम्बू-कटक-चैत्येषु, नित्यं सन्निहितालये ॥ 7 ॥
त्वं ब्रह्म-विद्यानां, महा-निद्रा च देहिनाम्।
स्कन्ध-मातर्भगवति, दुर्गे कान्तार-वासिनि ॥ 8 ॥
स्वाहाकारः स्वधा चैव, कला काष्ठा सरस्वती।
सावित्री वेद-माता च, तथा वेदान्त उच्यते ॥ 9 ॥
स्तुतासि त्वं महा-देवि विशुद्धेनान्तरात्मा।
जयो भवतु मे नित्यं, त्वत्-प्रसादाद् रणाजिरे ॥10 ॥
कान्तार-भय-दुर्गेषु, भक्तानां चालयेषु च।
नित्यं वससि पाताले, युद्धे जयसि दानवान् ॥ 11 ॥
त्वं जम्भिनी मोहिनी च, माया ह्रीः श्रीस्तथैव च।
सन्ध्या प्रभावती चैव, सावित्री जननी तथा ॥ 12 ॥
तुष्टिः पुष्टिर्धृतिदीप्तिश्चन्द्रादित्य-विवर्धनी।
भूतिर्भूति-मतां संख्ये, वीक्ष्यसे सिद्ध-चारणैः ॥13 ॥
॥ फल-श्रुति ॥
🚩🚩
यः इदं पठते स्तोत्रं, कल्यं उत्थाय मानवः।
यक्ष-रक्षः-पिशाचेभ्यो, न भयं विद्यते सदा ॥ 1 ॥
न चापि रिपवस्तेभ्यः, सर्पाद्या ये च दंष्ट्रिणः।
न भयं विद्यते तस्य, सदा राज-कुलादपि ॥ 2 ॥
विवादे जयमाप्नोति, बद्धो मुच्येत बन्धनात्।
दुर्गं तरति चावश्यं, तथा चोरैर्विमुच्यते ॥ 3 ॥
संग्रामे विजयेन्नित्यं, लक्ष्मीं प्राप्न्नोति केवलाम्।
आरोग्य-बल-सम्पन्नो, जीवेद् वर्ष-शतं तथा ॥ 4 ॥
🙏🚩🚩🙏
दुर्गे देवी नमोस्तुते 🚩🙏
जय माता दी 🚩 🙏
भारत माता की जय 🇮🇳🙏
🌹🎋🌞🌿🥀🙏🙏🙏🥀🌿🌞🎋🌹
आपका दिन शुभ और मंगलमय हो,
🔱हर हर महादेव 🌹🚩🚩🚩
🌞जय श्री राम🏹🌹🚩🚩🚩
🕉️ जयश्रीकृष्णा 🌹🚩🚩🚩
📍जयजय हनुमानजी महाराज🙏🚩🚩🚩
🌿जय हो सुडसर धाम की 🙏🚩🚩🚩
🌹🎋🌞🌿🥀🙏🙏🙏🥀🌿🌞🎋🌹
#ॐ #जय #ॐनमःशिवाय #जयमातादी #जय_श्री_राम #राम #ॐ_हं_हनुमंते_नमः #hanuman #everyone #bhakti #मंगलवार #शनिवार #सनातन # #सुबह #सुप्रभात
🌹🙏#श्रीराम_मोहता का #राम_राम_सा 🙏🌹
@everyone
#🌹राम राम सा🌹 #श्रीराम_मोहता🌹🙏
17 likes
10 shares