sn vyas
#जय श्री कृष्ण
॥ विजयते् श्रीबालकृष्ण प्रभु ॥
नमामीश गोपीश कृष्ण स्वरूपं ,
मुरारिं हरिं केशवं ब्रह्मरूपम् l
यशोदाप्रियं नन्द-आनंद कन्दं ,
नतोsहं सदा अच्युतं कृष्ण चन्द्रम् ll
पटपीत वर्णं अलि-तुल्य केशं ,
गिरिधारिणेयं नटं गोप वेशम् l
करे कंकणं वेणु वाद्यं रसालं ,
नमामि सदा कृष्ण गोपाल बालम् ll
...