Failed to fetch language order
Failed to fetch language order
🌺संकष्टी चतुर्थी
40K Posts • 421M views
💥💫Mrs. Jyoti💫💥
18K views 5 days ago
#🌸संकष्ट चतुर्थी🪻 #🌺संकष्टी चतुर्थी #संकष्टी चतुर्थी #संकष्ट चतुर्थी #🌺संकष्ट चतुर्थी माझ्या सर्व गणेश भक्तांना संकष्टी चतुर्थीच्या हार्दिक शुभेच्छा 🙏 आदिशङ्कराचार्य द्वारा रचित श्रीगणेशपञ्चरत्नस्तोत्रम् मुदाकरात्तमोदकं सदा विमुक्तिसाधकम् । कलाधरावतं­सकं विलासिलोकरञ्जकम् ॥ अनायकैकनायकं विनाशितेभदैत्यकम् । नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥ नतेतरातिभीकरं नवोदितार्कभास्वरम् । नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ॥ सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् । महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥ समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरम् । दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ॥ कृपाकरं क्षमाकरं मुदाकरं यशस्करम् । मनस्करं नमस्कृतां नमस्करोमि भास्करम् ॥ ३ ॥ अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनम् । पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ॥ प्रपञ्चनाशभीषणं धनञ्जयादिभूषणम् । कपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥ नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् । अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ॥ हृदन्तरे निरन्तरं वशन्तमेव योगिनाम् । तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५ ॥ ~फलश्रुति~ महागणेशपञ्चरत्नमादरेण योऽन्वहम् । प्रजल्पति प्रपाठति स्मरन्महेश्वरं सुतम् ॥ समस्तदोषशोषणं समस्तलोकपोषणम् । समस्तगोपवृद्द्हिकं समस्तमोक्षसिद्धिदम् ॥
83 likes
2 comments 127 shares