🙏ఓం నమో భగవతే వాసుదేవాయ🕉️
90 Posts • 5K views
nvs subramanyam sharma
602 views 2 days ago
🙏 श्रीहरि विष्णु के विराट स्वरूप का दिव्य स्मरण आपके जीवन से अज्ञान का अंधकार दूर करे और मन, बुद्धि व आत्मा को शांति प्रदान करे। 🌸 भगवान विष्णु की कृपा से आप सभी का दिन मंगलमय हो 🌺 🕉️नमो नारायणाय!🙏🏻 #🌅శుభోదయం #🌼ఆదివారం స్పెషల్ విషెస్ #🙏🏻ఆదివారం భక్తి స్పెషల్ #🙏శ్రీ వెంకటేశ్వర స్వామి #🙏ఓం నమో భగవతే వాసుదేవాయ🕉️
11 likes
8 shares
Rochish Sharma Nandamuru
1K views 2 months ago
अग्निबिन्दुकृतं विष्णुस्तोत्रम् अग्निबिन्दुरुवाच । ॐ नमः पुण्डरीकाक्ष बाह्यान्तःशौचदायिने । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १॥ नमामि ते पदद्वन्द्वं सर्वद्वन्द्वनिवारकम् । निर्द्वन्द्वया धिया विष्णो जिष्ण्वादि सुरवन्दित ॥ २॥ यं स्तोतुं नाधिगच्छन्ति वाचो वाचस्पतेरपि । तमीष्टे क इह स्तोतुं भक्तिरत्र बलीयसी ॥ ३॥ अपि यो भगवानीशो मनःप्राचामगोचरः । समादृशैरल्पधीभिः कथं स्तुत्यो वचः परः ॥ ४॥ यं वाचो न विशन्तीशं मनतीह मनो न यम् । मनो गिरामतीतं तं कः स्तोतुं शक्तिमान्भवेत् ॥ ५॥ यस्य निःश्वसितं वेदाः स षडङ्गपदक्रमाः । तस्य देवस्य महिमा महान्कैरवगम्यते ॥ ६॥ अतन्द्रितमनोबुद्धीन्द्रिया यं सनकादयः । ध्यायन्तोऽपि हृदाकाशे न विन्दन्ति यथार्थतः ॥७॥ नारदाद्यैर्मुनिवरैराबालब्रह्मचारिभिः । गीयमानचरित्रोऽपि न सम्यग्योऽधिगम्यते ॥ ८॥ तं सूक्ष्मरूपमजमव्ययमेकमाद्यं बह्माद्यगोचरमजेयमनन्तशक्तिम् । नित्यं निरामयममूर्तमचिन्त्यमूर्तिं कस्त्वां चराचर चराचरभिन्न वेत्ति ॥९॥ एकैकमेव तव नाम हरेन्मुरारे जन्मार्जिताघमघिनां च महापदाढ्यम् । दद्यात्फलं च महितं महतो मखस्य जप्तं मुकुन्द मधुसूदन माधवेति ॥ १०॥ नारायणेति नरकार्णवतारणेति दामोदरेति मधुहेति चतुर्भुजेति । विश्वम्भरेति विरजेति जनार्दनेति क्वास्तीह जन्म जपतां क्व कृतान्तभीतिः ॥ ११॥ ये त्वां त्रिविक्रम सदा हृदि शीलयन्ति कादम्बिनी रुचिर रोचिषमम्बुजाक्षम् । सौदामनीविलसितांशुकवीतमूर्ते तेऽपि स्पृशन्ति तव कान्तिमचिन्त्यरूपाम् ॥ १२॥ श्रीवत्सलाञ्छन हरेऽच्युत कैटभारे गोविन्द तार्क्ष्यरथ केशव चक्रपाणे । लक्ष्मीपते दनुजसूदन शार्ङ्गपाणे त्वद्भक्तिभाजि न भयं क्वचिदस्ति पुंसि ॥ १३॥ यैरर्चितोऽसि भगवंस्तुलसीप्रसूनै- र्दूरीकृतैणमदसौरभदिव्यगन्धैः । तानर्चयन्ति दिवि देवगणाःसमस्ता मन्दारदामभिरलं विमलस्वभावान् ॥ १४॥ यद्वाचि नाम तव कामदमब्जनेत्र यच्छ्रोत्रयोस्तव कथा मधुराक्षराणि । यच्चित्तभित्तिलिखितं भवतोऽस्ति रूपं नीरूपभूपपदवी न हि तैर्दुरापा ॥ १५॥ ये त्वां भजन्ति सततं भुवि शेषशायिं- स्ताञ्छ्रीपते पितृपतीन्द्रकुबेरमुख्याः । वृन्दारका दिवि सदैव सभाजयन्ति स्वर्गापवर्गसुखसन्ततिदानदक्ष ॥ १६॥ ये त्वां स्तुवन्ति सततं दिवि तान्स्तुवन्ति सिद्धाप्सरोमरगणा लसदब्जपाणे । विश्राणयत्यखिलसिद्धिद को विना त्वां निर्वाणचारुकमलां कमलायताक्ष ॥ १७॥ त्वं हंसि पासि सृजसि क्षणतः स्वलीला लीलावपुर्धर विरिञ्चिनताङ्घ्रियुग्म । विश्वं त्वमेव परविश्वपतिस्त्वमेव विश्वस्य बीजमसि तत्प्रणतोऽस्मि नित्यम् ॥ १८॥ स्तोता त्वमेव दनुजेन्द्ररिपो स्तुतिस्त्वं स्तुत्यस्त्वमेव सकलं हि भवानिहैकः । त्वत्तो न किञ्चिदपि भिन्नमवैमि विष्णो तृष्णां सदा कृणुहि मे भवजाम्भवारे ॥ १९॥ इति श्रीस्कन्दपुराणे काशीखण्डे पूर्वार्द्धे षष्टितमा- ध्यायान्तर्गतं अग्निबिन्दुकृतं विष्णुस्तोत्रं सम्पूर्णम् । ❣️ 🪷❤️🪷❤️🪷💙🪷🩵🪷❤️ 🪷🧡🪷🩶🪷🤍🪷💛🪷 🙏🙏 ॐ नमो भगवते वासुदेवाय नमः 🪷🙏 ॐ महालक्ष्म्यै नमो नमः ॐ विष्णुप्रिययै नमो नमः ॐ धनप्रदायै नमो नमः ॐ विश्वजनन्यै नमो नमः जय माता दी 🪷🙏 #🌅శుభోదయం #🌸శనివారం స్పెషల్ స్టేటస్ #🙏🏻శనివారం భక్తి స్పెషల్ #🙏శ్రీ వెంకటేశ్వర స్వామి #🙏ఓం నమో భగవతే వాసుదేవాయ🕉️
15 likes
17 shares