Kiran Gosavi
424 views
9 hours ago
#श्री दत्तात्रेय जयंती श्री गुरूदेव दत्त •❀•॥जय श्री गुरूदेव दत्त॥•❀• . ❁!!*श्रीदत्तात्रेयप्रातः स्मरणस्तोत्रम्*!!❁ प्रातः स्मरामि करुणावरुणालयं तम् । श्रीदत्तमार्तवरदं वरदण्डहस्तम्॥१॥ सन्तं निजार्तिशमनं दमनं विनीत -स्वान्तर्गताखिलमलं विमलं प्रशांतम्॥२॥ प्रातर्भजामि भजदिष्टवरप्रदं तम् । दत्तं प्रसादसदनं वरहीरदं तम्॥३॥ कान्तं मुदात्रितनयं भवमोक्षहेतुम् । सेतुं वृषस्य परमं जगदादिहेतुम् ॥४॥ प्रातर्नमामि प्रयतोऽनसूया -पुत्रं स्वमित्रं यमितोऽनसूयाः॥५॥भूयांस आप्तास्तमिहार्तबंधुं । कारुण्यसिन्धुं प्रणमामि भक्त्या ॥६॥ लोकत्रयगुरोर्यस्तु श्लोकत्रयमिदं पठेत् । श्रीदत्तात्रेयदेवस्य तस्य संसारभीः कुतः॥७॥ इति श्री. प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयप्रातः स्मरणस्तोत्रं संपूर्णम् ॥ ✧॥ॐ जय श्री गुरुदेव दत्त॥✧